(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.81. अध्यायः 081
Mahabharata - Vana Parva - Chapter Topics
पुलस्त्येन भीष्मंप्रति नानातीर्थमहिमानुवर्णनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

पुलस्त्य उवाच। 3-81-0x(1986)(19076)
ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम्।
पापेभ्योविप्रमुच्यन्ते तद्गताः सर्वजन्तवः ॥ 3-81-1(19077)
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्।
य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते ॥ 3-81-2(19078)
पांसवोऽपिकुरुक्षेत्रे वायुना समुदीरिताः।
अपिदुष्कृतकर्माणं नयन्ति परमां गतिम् ॥ 3-81-3(19079)
दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च।
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ॥ 3-81-4(19080)
तत्र मासं वसेद्धीरः सरस्वत्यां युधांवर।
यत्रब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥ 3-81-5(19081)
गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते।
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ॥ 3-81-6(19082)
मनसाऽप्यभिकामस्य कुरुक्षेत्रं युधांवर।
पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति ॥ 3-81-7(19083)
गत्वा हि श्रद्धया युक्तः करुक्षेत्रं कुरूद्वह।
राजसूयाश्वमेधाभ्यां फलमाप्नोति मानवः ॥ 3-81-8(19084)
ततश्च मन्तुकं राजन्द्वारपालं महाबलम्।
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् ॥ 3-81-9(19085)
ततो गच्छेत धर्मज्ञ विष्णो स्थानमनुत्तमम्।
सततं नाम राजेन्द्र यत्रसन्निहितो हरिः ॥ 3-81-10(19086)
तत्रस्नात्वाऽर्चयित्वा च त्रिलोकप्रभवं हरिम्।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ 3-81-11(19087)
ततः परिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम्।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति भारत ॥ 3-81-12(19088)
पृथिवीतीर्थमासाद्य गोसहस्रफलं लभेत्।
ततः शालूकिनी गत्वा तीर्थसेवी नराधिप ॥ 3-81-13(19089)
दशाश्वमेधे स्नात्वा च तदेव फलमाप्नुयात्।
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् ॥ 3-81-14(19090)
अग्निष्टोममवाप्नोति नागलोकं च विन्दति।
ततो गच्छेत धर्मज्ञ द्वारपालमरुन्तुकम् ॥ 3-81-15(19091)
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्।
ततः पञ्चनदं गत्वा नियतो नियताशनः ॥ 3-81-16(19092)
कोटितीर्थमुपस्पृश्य हयमेधफंल लभेत्।
अश्विनोस्तीर्थमासाद्य रूपवानमिजायते ॥ 3-81-17(19093)
ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम्।
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितो विभुः ॥ 3-81-18(19094)
तत्रस्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत्।
ततो जयन्त्यां राजेन्द्र सोमतीर्थं समाविशेत् ॥ 3-81-19(19095)
स्नात्वा फलमवाप्नोति राजसूयस्य मानवः।
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ 3-81-20(19096)
शतशौचं समासाद्य तीर्थसेवी नराधिप।
पौण्डरीकमवाप्नोति कृतशौचो भवेच्च सः ॥ 3-81-21(19097)
ततो मुञ्जवटं नाम स्थाणोः स्थानं महात्मनः।
उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ॥ 3-81-22(19098)
तत्रैव च महाराज यक्षिणी लोकविश्रुता।
तां चाभिगम्यराजेन्द्र सर्वान्कामानवाप्नुयात् ॥ 3-81-23(19099)
कुरुक्षेत्रस् तद्द्वारं विश्रुतं भरतर्षभ।
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः ॥ 3-81-24(19100)
संमिते पुष्कराणां च स्नात्वाऽर्च्य पितृदेवताः।
जामदग्न्येन रामेण कृतं तत्सुमहात्मना ॥ 3-81-25(19101)
कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति।
ततो रामह्रदानार्च्छेत्तीर्थसेवी समाहितः ॥ 3-81-26(19102)
तत्ररामेण राजेनद्रतरसा दीप्ततेजसा।
क्षत्रमुत्साद् वीरेण ह्रदाः पञ्च निवेशिताः ॥ 3-81-27(19103)
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम्।
पितरस्तर्पिताः सर्वे तथैव प्रपितागहाः ॥ 3-81-28(19104)
ततस्ते पितरः प्रीता राममूचुर्नराधिप।
रामराम महाभाग प्रीताः स्म तव भार्गव ॥ 3-81-29(19105)
अनया पितृभक्त्या च विक्रमेण च ते विभो।
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते ॥ 3-81-30(19106)
एवमुक्तः स राजेन्द्र राम प्रहरतांवरः।
अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् ॥ 3-81-31(19107)
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि।
पितृप्रसादादिच्छेयं तपःस्वाध्ययनं पुनः ॥ 3-81-32(19108)
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया।
ततश्च पापान्मुच्येयं युष्माकं तेजसाऽप्यहम् ॥ 3-81-33(19109)
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः।
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा ॥ 3-81-34(19110)
प्रत्यूचुः परमप्रीता रामं हर्पसमन्विताः।
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः ॥ 3-81-35(19111)
यच्च रोपाभिभूतेन क्षत्रमुत्सादितं त्वया।
ततश्च पापान्मुक्तस्त्वं पातितास्ते स्वकर्मभिः ॥ 3-81-36(19112)
ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः।
ह्रदेषु तेषु यः स्नात्वा पितॄन्संतर्पयिष्यति ॥ 3-81-37(19113)
पितरस्तस् वै प्रीता दास्यन्ति भुवि दुर्लभम्।
ईप्सितं च मनःकामं स्वर्गलोकं च शाश्वतम् ॥ 3-81-38(19114)
एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा।
आमन्त्र्य भारग्वं प्रीत्या तत्रैवान्तर्हितास्ततः ॥ 3-81-39(19115)
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः।
स्नात्वा ह्रहेषु रामस्य ब्रह्मचारी शुचिव्रतः ॥ 3-81-40(19116)
राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम्।
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह ॥ 3-81-41(19117)
स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके।
कायशोधनमासाद्य तीर्थं भरतसत्तम ॥
शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः। 3-81-42(19118)
शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः।
शुद्धदेहश्च संयाति युभाँल्लोकाननुत्तमान् ॥ 3-81-43(19119)
ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम्।
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ॥ 3-81-44(19120)
लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यपूजितम्।
स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् ॥ 3-81-45(19121)
श्रीतीर्थं च समासाद्य स्नात्वा नियतमानसः।
अर्चयित्वा पितॄन्देवान्विन्दते श्रियमुत्तमाम् ॥ 3-81-46(19122)
कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः।
तत्र स्नात्वाऽर्चयित्वा च पितॄन्स्वान्दैवतान्यपि ॥ 3-81-47(19123)
कपिलानां सहस्रस्य फलंविन्दति मानवः।
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ॥ 3-81-48(19124)
अर्चयित्वा पितॄन्देवानुपवासपरायणः।
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ॥ 3-81-49(19125)
गवां भगवनासाद्य तीर्थसेवी यथाक्रमम्।
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥ 3-81-50(19126)
शङ्खिनीतीर्थमासाद्य तीर्थसेवी कुरूद्वह।
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ॥ 3-81-51(19127)
ततो गच्छेत राजेन्द्रद्वारपालमरुन्तुकम्।
तच्च तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ॥ 3-81-52(19128)
तत्रस्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्।
ततो गच्छेत राजेन्द्र ब्रह्मावर्तं नरोत्तमः ॥ 3-81-53(19129)
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात्।
ततो गच्छेत राजेन्द्र सुतीर्थकमनुत्तमम् ॥ 3-81-54(19130)
तत्रसन्निहिता नित्यं पितरो दैवतैः सह।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ 3-81-55(19131)
अश्वमेधमावाप्नोति पितृलोकं च गच्छति।
ततोम्बुमत्यां धर्मज्ञ सुतीर्थकमनुत्तमम् ॥ 3-81-56(19132)
कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम।
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ॥ 3-81-57(19133)
मातृतीर्थं च तत्रैव यत्रस्नातस्य भारत।
प्रजा विवर्धते राजन्न तन्वीं श्रियमश्नुते ॥ 3-81-58(19134)
ततः शीतवनं गच्छेन्नियतो नियताशनः।
तीर्थं तत्रमहाराज महदन्यत्र दुर्लभम् ॥ 3-81-59(19135)
पुनाति गमनादेव कुलमेकं नराधिप।
केशानभ्युक्ष् वै तस्मिन्पूतो भवति भारत ॥ 3-81-60(19136)
तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम्।
यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः ॥ 3-81-61(19137)
गतिं गच्छन्ति परमां स्नात्वा भरतसत्तम।
श्वानलोमापनयने तीर्थे भरतसत्तम ॥ 3-81-62(19138)
प्राणायामैर्निर्हरन्ति स्वलोमानि द्विजोत्तमाः।
पूतात्मानश्च राजेन्द्रप्रयान्ति परमां गतिम् ॥ 3-81-63(19139)
दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते।
तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् ॥ 3-81-64(19140)
ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम्।
यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः ॥ 3-81-65(19141)
विगाह्य तस्मिन्सरसि मानुषत्वमुपागताः।
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः ॥ 3-81-66(19142)
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते।
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते ॥ 3-81-67(19143)
आपगा नाम विख्याता नदीसिद्धनिषेविता।
श्यामाकभोजनं तत्रयः प्रयच्छति मानवः ॥ 3-81-68(19144)
देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत्।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥ 3-81-69(19145)
तत्रस्नात्वाऽर्चयित्वा च पितृन्वै दैवतानि च।
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ॥ 3-81-70(19146)
ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम्।
ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत ॥ 3-81-71(19147)
तत्रसप्तर्षिकुण्डेषु स्नातस् यनरपुङ्गव।
केदारे चैवराजेन्द्रकपिञ्जलमहामुनेः ॥ 3-81-72(19148)
ब्रह्माणमधिगत्वा च शुचिः प्रयतमानसः।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥ 3-81-73(19149)
कपिञ्जलस्य केदारं समासाद्य सुदुर्लभम्।
अन्तर्धानमवाप्नोति तपसा दग्धकिल्विषः ॥ 3-81-74(19150)
ततो गच्छेत राजेन्द्र शङ्करं लोकविश्रुतम्।
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् ॥ 3-81-75(19151)
लभेत सर्वकामान्हि स्वर्गलोकं च गच्छति।
तिस्रः कोट्यस्तु तीर्थानां शङ्करे कुरुनन्दन ॥ 3-81-76(19152)
रुद्रकोट्यां तथा कूपे ह्रदेषु च महीपते।
शुद्धास्पदं च तत्रैव तीर्थं भरतसत्तम ॥ 3-81-77(19153)
तत्रस्नात्वाऽर्चयित्वा च दैवतानि पितॄनथ।
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ॥ 3-81-78(19154)
किंदाने च नरः स्नात्वा किंजप्ये च महीपते।
अप्रमेयमवाप्नोति दानं जप्यं च भारत ॥ 3-81-79(19155)
कलश्यां वार्युपस्पृश्य श्रद्दधानो जितेन्द्रियः।
अग्निष्टोमस् यज्ञस्य फलं प्राप्नोति मानवः ॥ 3-81-80(19156)
शंकरस्य तु पूर्वेण नारदस्य महात्मनः।
तीर्थं कुरुकुलश्रेष्ठ अजानन्तेति विश्रुतम् ॥ 3-81-81(19157)
तत्रतीर्थे नरः स्नात्वा प्राणानुत्सृज्य भारत।
नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोत्यनुत्तमानन् ॥ 3-81-82(19158)
शुक्लपक्षे दशम्यां च पुण्डरीकं समाविशेत्।
तत्र स्नात्वा नरो राजन्पौण्डरीकफलं लभेत् ॥ 3-81-83(19159)
ततस्त्रिविष्टपं गच्छेत्रिषु लोकेषु विश्रुतम्।
तत्र वैतरणी पुण्या नदी पापप्रणाशिनी ॥ 3-81-84(19160)
तत्र स्नात्वाऽर्चयित्वा च शूलपाणिं वृषध्वजम्।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥ 3-81-85(19161)
ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम्।
तत्र देवाः सदा राजन्फलकीवनमाश्रिताः ॥ 3-81-86(19162)
तपश्चरन्ति विपुलं बहुवर्षसहस्रकम्।
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः ॥ 3-81-87(19163)
अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत।
तीर्ते च सर्वदेवानां स्नात्वा भरतसत्तम ॥ 3-81-88(19164)
गोसहस्रस्य राजेन्द्र फलं विन्दति मानवः।
पाणिस्वाते नरः स्नात्त्वा तर्पयित्वा च देवताः ॥ 3-81-89(19165)
अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत।
राजसूयमावाप्नोति ऋषिलोकं च विन्दति ॥ 3-81-90(19166)
ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम्।
तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ॥ 3-81-91(19167)
व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम्।
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ॥ 3-81-92(19168)
ततो व्यासवनं गच्छेन्नियतो नियताशनः।
मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ 3-81-93(19169)
गत्वा मधुवटीं चैव देव्याः स्थानं नरः शुचिः।
तत्र स्नात्वाऽर्चयित्वा च पितॄन्देवांश्च पूरुषः ॥ 3-81-94(19170)
स देव्या समनुज्ञातो गोसहस्रफलं लभेत्।
कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत ॥ 3-81-95(19171)
स्नाति वै नियताहार सर्वपापैः प्रमुच्यते।
ततो व्यासस्थली नाम यत्रव्यासेन धीमता ॥ 3-81-96(19172)
पुत्रशोकाभितप्तेन देहत्यागे कृता मतिः।
ततो देवैस्तु राजेन्द्र पुनरुत्थापितस्तदा ॥ 3-81-97(19173)
अभिगत्वा स्थलीं तस्य गोसहस्रफलं लभेत्।
किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च ॥ 3-81-98(19174)
गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह।
वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ 3-81-99(19175)
अहस्छ सुदिनं चैव द्वे तीर्थे लोकविश्रुते।
तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् ॥ 3-81-100(19176)
मृगधूमं ततो गच्छेत्रिषु लोकेषु विश्रुतम्।
तत्राभिषेकं कुर्वीत गङ्गायां नृपसत्तम ॥ 3-81-101(19177)
अर्चयित्वा महादेवमश्वमेधफलं लभेत्।
देव्यास्तीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ 3-81-102(19178)
ततो वामनकं गच्छेत्रिषु लोकेषु विश्रुतम्।
तत्रविष्णुपदे स्नात्वा अर्चयित्वा च वामनम् ॥ 3-81-103(19179)
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति।
कुलपुने नरः स्नात्वा पुनाति स्वकुलं ततः ॥ 3-81-104(19180)
पवनस्य ह्रदे स्नात्वा मरुतां तीर्थमुत्तमम्।
तत्रस्नात्वा नख्याघ्र विष्णुलोके महीयते ॥ 3-81-105(19181)
अमराणां ह्रदे स्नात्वा समभ्यर्च्यामराधिपम्।
अमराणां प्रभावेन स्वर्गलोके महीयते ॥ 3-81-106(19182)
शालिहोत्रस्य तीर्थे च शालिशूर्पे यथाविधि।
स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ॥ 3-81-107(19183)
श्रीकुञ्जं च सरस्वत्यास्तीर्थं भरतसत्तम।
तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत् ॥ 3-81-108(19184)
ततो नैमिपकुञ्जं च समासाद्य कुरूद्वह।
ऋषयः किल राजेन्द्र नैमिषेयास्तपस्विनः ॥ 3-81-109(19185)
तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा।
`तत्र तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्।'
ततः कुञ्जः सरस्वत्याः कृतो भरतसत्तम ॥ 3-81-110(19186)
ऋपीणामवकाशः स्याद्यथा तुष्टिकरो महान्।
कन्यातीर्थे नरः स्नात्वागोसहस्रफलं लभेत् ॥ 3-81-111(19187)
ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम्।
कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् ॥ 3-81-112(19188)
ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम्।
तत्रवर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ॥ 3-81-113(19189)
ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम्।
ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनत्तमम् ॥ 3-81-114(19190)
तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात्।
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप ॥ 3-81-115(19191)
यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः।
पुरा मङ्कणको राजन्कुशाग्रेणेति नःश्रुतम् ॥ 3-81-116(19192)
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत्।
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥ 3-81-117(19193)
ततस्तस्मिन्प्रनृत्ते तु स्थावरं जङ्गमं च यत्।
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥ 3-81-118(19194)
ब्रह्मादिभिः सुरै राजनृषिभिश्च तपोधनैः।
क्षिप्तो वै महादेव ऋषेरर्थे नराधिप ॥ 3-81-119(19195)
नायं नृत्येद्यथा देव तथा न्वं कर्तुमर्हसि।
तं प्रनृत्तं समासाद्य हर्षाविष्टेन चेतसा।
सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत ॥ 3-81-120(19196)
भोभो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान्।
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ॥ 3-81-121(19197)
ऋषिरुवाच। 3-81-122x(1987)
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम।
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् ॥ 3-81-122(19198)
यं दृष्ट्वाऽहं प्रनृत्तोऽहं हर्षेण महताऽन्वितः।
तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम् ॥ 3-81-123(19199)
अहं तु विस्मयं विप्र न गच्छामीति पश्य माम्।
एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता ॥ 3-81-124(19200)
अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितोऽनघ।
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् ॥ 3-81-125(19201)
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः।
नान्यद्देवात्परं मेने रुद्रात्परतरं महत् ॥ 3-81-126(19202)
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृत्।
त्वया सर्वमिदं सृष्टं त्रैलोक्यं सचराचरम् ॥ 3-81-127(19203)
त्वमेव सर्वान्ग्रससि पुनरेव युगक्षये।
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ॥ 3-81-128(19204)
त्वयि सर्वे प्रदृश्यन्ते सुरा ब्रह्मादयोऽनघ।
सर्वस्त्वमसि लोकानां कर्ताकारयिता च ह ॥ 3-81-129(19205)
त्वत्प्रसादात्सुराः सर्वे निवसन्त्यकुतोभयाः।
एवं स्तुत्वा महादेवमृषिर्वचनमब्रवीत् ॥ 3-81-130(19206)
त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै।
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् ॥ 3-81-131(19207)
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रशः।
आश्रमे चेह वत्स्यामि त्वया सह महामुने ॥ 3-81-132(19208)
सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम्।
न तेषां दुर्लभं किंचिदिह लोके परत्र च ॥ 3-81-133(19209)
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः।
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ॥ 3-81-134(19210)
पुलस्त्य उवाच। 3-81-135x(1988)
ततस्त्वौशनसं गच्छेत्रिषु लोकेषु विश्रुतम्।
यत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ 3-81-135(19211)
कार्तिकेयश्च भगवांस्त्रिसंध्यं किल भारत।
सान्निध्यमकरोन्नित्यं भार्गवप्रियकाम्यया ॥ 3-81-136(19212)
कपालमोचनं तीर्थं सर्वपापप्रमोचनम्।
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ॥ 3-81-137(19213)
अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ।
अग्निलोकमवाप्नोति कुलं चैव सुमुद्धरेत् ॥ 3-81-138(19214)
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम।
तत्र स्नात्वा नरश्रेष्ठ ब्राह्मण्यमधिगच्छति ॥ 3-81-139(19215)
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः।
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ॥ 3-81-140(19216)
पुनात्यासप्तमं चैव कुलं नास्त्यत्रसंशयः।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥ 3-81-141(19217)
पृथूदकमिति ख्यातं कार्तिकेयस्य वै नृप।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ 3-81-142(19218)
अज्ञानाज्ज्ञानतो वाऽपिस्त्रिया वा पुरुषेण वा।
यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना ॥ 3-81-143(19219)
तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत।
अश्वमेधफलं चास्य स्वर्गलोकं च गच्छति ॥ 3-81-144(19220)
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वती।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश् पृथूदकम् ॥ 3-81-145(19221)
उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम्।
पृथूदके जप्यपरो नैव श्वो मरणं तपेत् ॥ 3-81-146(19222)
गीतं सनत्कुमारेण व्यासेन च महात्मना।
वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम् ॥ 3-81-147(19223)
पृथूदकात्तीर्थतमं नान्यत्तीर्थं कुरूद्वह।
तन्मेध्यं तत्पवित्रं च पावनं च न संशयः ॥ 3-81-148(19224)
तत्रस्नात्वा दिवं यान्ति येऽपि पापकृतो नराः।
पृथूदके नरश्रेष्ठ एवमाहुर्मनीषिणः ॥ 3-81-149(19225)
मधुस्रवं च तत्रैव तीर्थं भरतसत्तम।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ 3-81-150(19226)
ततो गच्छेत राजेन्द्र तीर्थं देव्या यथाक्रमम्।
सरस्वत्यारुणायाश्च संगमे लोकविश्रुते ॥ 3-81-151(19227)
त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया।
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥ 3-81-152(19228)
आसप्तमं कुलं चैव पुनाति भरतर्षभ।
अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ॥ 3-81-153(19229)
विप्राणामनुकम्पार्थं शार्ङ्गिणा निर्मिनं पुरा।
व्रतोपनयनाभ्यां चाप्युपवासेन वाऽप्युत ॥ 3-81-154(19230)
क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः।
क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ।
चीर्णव्रतो भवेद्विद्वान्दृष्टमेतत्पुरातनैः ॥ 3-81-155(19231)
समुद्राश्चापि चत्वारः समानीताश् दर्भिणा।
तेषु स्नातो नरश्रेष्ठ न दुर्गतिमवाप्नुयात् ॥ 3-81-156(19232)
फलानि गोसहस्राणां चतुर्णां विन्दते च सः।
ततो गच्छेत धर्मज्ञ तीर्थं शतसहस्रकम् ॥ 3-81-157(19233)
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते।
उभयोर्हि नरः स्नात्वा गोसरस्रफंल लभेत् ॥ 3-81-158(19234)
दानं वाऽप्युपवासो वा सहस्रगुणितं भवेत्।
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् ॥ 3-81-159(19235)
तीर्ताभिषेकं कुर्वीत पितृदेवार्चने रतः।
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ॥ 3-81-160(19236)
विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः।
प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते ॥ 3-81-161(19237)
ततः पञ्चवटीं गत्वा ब्रह्मचारी जितेन्द्रियः।
पुण्येन महता युक्तः सतां लोके महीयते ॥ 3-81-162(19238)
यत्रयोगेश्वरः स्थाणुः स्वयमेव वृषध्वजः।
तमर्चयित्वा देवेशं गमनादेव सिद्ध्यति ॥ 3-81-163(19239)
तैजसं वारुणं तीर्थं दीप्यमानं स्वतेजसा।
यत्र रब्रह्मादिभिर्दैर्वैर्ऋषिभिश्च तपोधनैः ॥ 3-81-164(19240)
सैनापत्येन देवानामभिषिक्तो गुहस्तदा।
तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ॥ 3-81-165(19241)
कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥ 3-81-166(19242)
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः।
स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति ॥ 3-81-167(19243)
ततो गच्छेदनरकं तीर्थसेवी नराधिप।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥ 3-81-168(19244)
तत्रब्रह्मा स्वयं नित्यं देवैः सह महीपते।
अन्वास्ते पुरुषव्याघ्र नारायणपुरोगमैः ॥ 3-81-169(19245)
सान्निध्यं तत्रराजेन्द्र रुद्रपत्न्याः कुरूद्वह।
अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् ॥ 3-81-170(19246)
तत्रैव च महाराज विश्वेश्वरमुमापतिम्।
अभिगम्य महादेवं मुच्यते सर्वकिल्विषैः ॥ 3-81-171(19247)
नारायणं चाभिगम्य पद्मनाभमरिंदम।
राजमानो महाराज विष्णुलोकं च गच्छति ॥ 3-81-172(19248)
तीर्थेषु सर्वदेवानां स्नातः स पुरुषर्षभ।
सर्वदुःखैः परित्यक्तो द्योतते शशिवन्नरः ॥ 3-81-173(19249)
ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप।
प्रदक्षिणमुपावृत्य गोसहस्रफलं लभेत् ॥ 3-81-174(19250)
पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः।
अग्निष्टोमस्य यत्रस्य फलं प्राप्नोति भारत ॥ 3-81-175(19251)
गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ।
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते ॥ 3-81-176(19252)
तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते।
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ॥ 3-81-177(19253)
गाणपत्यमवाप्नोति कुलं चैव समुद्धरेत्।
ततः स्थाणुवटं गच्छेत्रिषु लोकेषु विश्रुतम् ॥ 3-81-178(19254)
तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नयात्।
बदरीकाननं गच्छेद्वसिष्ठस्याश्रमं गतः ॥ 3-81-179(19255)
बदरीं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः।
सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः ॥ 3-81-180(19256)
त्रिरात्रोपोषितस्तेन भवेत्तुल्यो नराधिप।
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप ॥ 3-81-181(19257)
अहोरात्रोपवासेन शक्रलोके महीयते।
एकरात्रं समासाद्य एकरात्रोषितो नरः ॥ 3-81-182(19258)
नियतः सत्यवादी च ब्रह्मलोके महीयते।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥ 3-81-183(19259)
आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः।
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुं ॥ 3-81-184(19260)
आदित्यलोकं व्रजति कुलं चैव समुद्धरेत्।
सोमतीर्थे नरः स्नात्वा तीर्थसेवी नराधिप ॥ 3-81-185(19261)
सोमलोकमवाप्नोति नरो नास्त्यत्रसंशयः।
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः ॥ 3-81-186(19262)
तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम्।
यत्र सारस्वतो यातः सोङ्गिरास्तपसो निधिः ॥ 3-81-187(19263)
तस्मिस्तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्।
सारस्वतीं गतिं चैव लभते नात्र संशयः ॥ 3-81-188(19264)
ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान्।
त्रिरात्रोपोषितो राजन्नियतो नियताशनः ॥ 3-81-189(19265)
लभेत्कन्याशतं दिव्यं स्वर्गलोकं च गच्छति।
ततो गच्छेत धर्मज्ञ तीर्थं सन्निहतीमपि ॥ 3-81-190(19266)
तत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः।
मासिमासि समायान्ति पुण्येन महाताऽन्विताः ॥ 3-81-191(19267)
सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे।
अश्वमेधशतं तेन तत्रेष्टं शाश्वतं भवेत् ॥ 3-81-192(19268)
पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च।
नद्यो ह्रदास्तडागाश्च सर्वप्रस्रवणानि च ॥ 3-81-193(19269)
उदपानानि वाप्यश्च तीर्थान्यायतनानि च।
निःसंशयममावास्यां समेष्यन्ति नराधिप ॥ 3-81-194(19270)
मासिमासि नरव्याघ्र सन्निहत्यां न संशयः।
तीर्थसन्निहनादेव सन्निहत्येति विश्रुता ॥ 3-81-195(19271)
तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते।
अमावास्यां तु तत्रैव राहुग्रस्ते रदिवाकरे ॥ 3-81-196(19272)
यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफंल शृणु।
अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् ॥ 3-81-197(19273)
स्नात एव समाप्नोति कृत्वा श्राद्धं च मानवः।
यत्किंचिद्दुष्कृतंकर्म स्त्रिया वा पुरुषेण वा ॥ 3-81-198(19274)
स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः।
पद्मवर्णेन याने ब्रह्मलोकं प्रपद्यते ॥ 3-81-199(19275)
अभिवाद्य ततो यक्षं द्वारपालं मचक्रुकम्।
कोटितीर्थमुपस्पृश्य लभेद्बहुसुवर्णकम् ॥ 3-81-200(19276)
गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम।
तत्रस्नायीत धर्मज्ञ ब्रह्मचारी समाहितः ॥ 3-81-201(19277)
राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः।
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ॥ 3-81-202(19278)
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते।
पांसवोपि कुरुक्षेत्राद्वायुना समुदीरिताः ॥ 3-81-203(19279)
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्।
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ॥ 3-81-204(19280)
ये वसन्ति कुरुक्षेत्रे तेवसन्ति त्रिविष्टपे।
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्।
अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते ॥ 3-81-205(19281)
ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम्।
तस्मिन्वसन्ति ये मर्त्या न ते शोच्याः कथंचन ॥ 3-81-206(19282)
तरन्तुकारन्तुकयोर्यदन्तरं
रामह्रदानां च मचक्रुकस्य च।
एतत्कुरुक्षेत्रसमन्तपञ्चकं
पितामहस्योत्तरवेदिरुच्यते ॥ 3-81-207(19283)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-81-7 कुत्सितं रौतीति कुरु तस्य क्षेपणात्रायत इति कुरुक्षेत्र पापनिवर्तकम् ॥ 3-81-9 ततश्च मन्तुकं राजन्निति ध. पाठः। ततो मचक्रुकं नामेति झ. पाठः ॥ 3-81-63 प्राणायामैर्हरन्तीह श्वानलोमा द्विजोत्तमा इति ध. पाठः ॥ 3-81-125 हिमसन्निभ अतिश्वेतमिक्षुविकारं खण्डशर्कराख्यम् ॥ 3-81-192 सन्निहत्यां कुरुक्षेत्रे ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.